॥ अद्याष्टकस्तोत्रम् ॥

 अद्य मे सफलं जन्म नेत्रे च सफले मम|
त्वामद्राक्षं यतो देव हेतुमक्षयसंपदः |1|

अद्य संसार-गंभीर-पारावारः सुदुस्तरः|
सुतरोऽयं क्षणेनैव जिनेन्द्र तव दर्शनात्|2|

 

अद्य मे क्षालितं गात्रं नेत्रे च विमले कृते|
स्नातोऽहं धर्म-तीर्थेषु जिनेन्द्र तव दर्शनात्|3|

अद्य मे सफलं जन्म प्रशस्तं सर्वमंगलम्|
संसारार्णव-तीर्णोऽहं जिनेन्द्र तव दर्शनात्|4|

 

अद्य कर्माष्टक-ज्वालं विधूतं सकषायकम्|
दुर्गतेर्विनिवृत्तोऽहं जिनेन्द्र तव दर्शनात्|5|

अद्य सौम्या ग्रहाः सर्वे शुभाश्र्चैकादश-स्थिताः|
नष्टानि विन्घ-जालानि जिनेन्द्र तव दर्शनात्|6|

  

अद्य नष्टो महाबन्धः कर्मणां दुःखदायकः|
सुख-संग समापन्नो जिनेन्द्र तव दर्शनात्|7|

अद्य कर्माष्टकं नष्टं दुःखोत्पादन-कारकम्|
सुखाम्भोधि-निमग्नोऽहं जिनेन्द्र तव दर्शनात्|8|